श्री शिव प्रातः स्मरण स्तोत्रम्
प्रातः स्मरामि भवभीतिहरं सुरेशं 

गङ्गाधरं वृषभवाहनमम्बिकेशम् ।

खट्वाङ्गशूलवरदाभयहस्तमीशं 

संसाररोगहरमौषधमद्वितीयम् ॥१॥



प्रातर्नमामि गिरिशं गिरिजार्धदेहं 

सर्गस्थितिप्रलयकारणमादिदेवम् ।

विश्वेश्वरं विजितविश्वमनोSभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥२॥



प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षड्भावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥३॥



प्रातः समुत्थाय शिवं विचिन्त्य

श्लोकत्रयं येSनुदिनं पठन्ति ।

ते दुःखजातं बहुजन्मसंचितं हित्वा 

पदं यान्ति तदेव शम्भो: ॥


आदि शंकराचार्य द्वारा रचित